Loading data... On slow networks this could take a few minutes.
100%

स्तम्भं महान्तमुचितं सहसा मुमोच
दानं ददावतितरां सरसाग्रहस्तः ।
बद्धपराणि परितो निगडानेयलावी-
त्स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥

मल्लिनाथः स्तम्भमिति ॥ करेणुश्चासौ राजा च करेणुराजो गजश्रेष्ठः । करेणूनां राजेति गजपतिः, राजा च ध्वन्यते । उभयत्रापि `राजाहःसखिभ्यः-` (अष्टाध्यायी ५.४.९१ ) इति टच् । उज्ज्वलमुच्छृङ्खलं स्वातन्त्रयं स्वेच्छाचारित्वमवाप। तदेवाह-उचितं चिरपरिचितं महान्तं स्तम्भमालानं जाड्यं च सहसा मुमोच। `स्तम्भः स्थूणाजडत्वयोः` इति&#३२; विश्वः । सरस आद्रोऽग्रहस्तः पुष्कर, पाणिश्च यस्य स सन् दानं मदं, दीयत इति दानं धनं चातितरामतिमात्रम् । अव्ययादामुप्रत्ययः । ददौ । ववर्षेत्यर्थः । परितो बद्धापराणि बद्धपश्चिमपादानि बद्धान्यानि च । `अपरः पश्चिमः पादः` इति गजप्रकरणे वैजयन्ती । निगडानि शृङ्खलानि । `अथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यात्` इत्यमरः । अलावीत् लुनाति स्म । `लून छेदने` लुङ् `अस्तिसिचोऽपृक्ते` (७३।९६) इतीट् `इट ईटिं` (अष्टाध्यायी ८.२.२८ ) इति सलोपः । अत्र करेणुराजपदसाधर्म्यध्वनिः । विशेष्यस्यापि श्लिष्टत्वान्न श्लेष इत्युक्तम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
स्त म्भं हा न्त मु चि तं सा मु मो
दा नं दा ति रां सा ग्र स्तः
द्ध रा णि रि तो नि डा ने ला वी
त्स्वा न्त्र्य मु ज्व वा रे णु रा जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.