Loading data... On slow networks this could take a few minutes.
100%

निर्धूतवीतमपि बालकमुल्ललन्तं
यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैर्वशमानिनाय
शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥

मल्लिनाथः निर्धूतेति ॥ यन्ता निषादी निधूतं निरस्तं वीतं पादघाताङ्कुशवारणं यस्मिन्कर्मणि तद्यथा तथा उल्ललन्तमुत्प्लवमानमपि । `पादकर्म यतं प्रोक्तं यतमङ्कुशवारणम् । उभयं वीतमाख्यातम्` इति हलायुधः । बालकं पञ्चवर्षगजम् । `पञ्चवर्षों गजो बालः पोतस्तु दशवार्षिकः` इति वैजयन्ती । शिक्षावशेन स्वकीयेन गजशास्त्राभ्यासबलेन क्रमेण परिपाट्या परिसान्त्वनान्युपलालनानि तर्जना भर्त्सनाश्च ताभिः शनैरेव शनकैः । `अव्ययसर्वनाम्नामकच् प्राक्टेः` (५।३७१) इति स्वार्थेऽकच् प्रत्ययः । शमं शान्तिमानिनाय । तथा हि—सुष्टु निश्चितार्था धीरेषां तेषाम् । पुंसामित्यर्थः । शास्त्रं क्व सिद्धिं नैति । स्वभ्यस्तं शास्त्रं सर्वत्र फलतीत्यर्थः । विभक्तधना भ्रातरो विभक्ता इतिवद्विनिश्चितार्था धीनिश्चितेत्युपचर्यते । अत एवात्र गम्यमानार्थत्वादुत्तरपदस्याप्रयोगलक्षणो लोप इत्याहुः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
नि र्धू वी पि बा मु ल्ल न्तं
न्ता क्र मे रि सा न्त्व र्ज ना भिः
शि क्षा शे कै र्व मा नि ना
शा श्त्रं हि नि श्चि धि यां क्व सि द्ध मे ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.