कण्डूयतः कटुभुवं करिणो मदेन
स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन
कणठेगुणत्वमलीनां वलयेन भेजे ॥

मल्लिनाथः कण्डूयत इति ॥ कटभुवं गण्डस्थलं कण्डूयतः कषतः । `कण्ड्वादिभ्यो यक्` (अष्टाध्यायी ३.१.२७ ) ततः शतृप्रत्ययः । कण्डूयतेर्ञिद्धातुप्रकृतित्वादुभयपदित्वम् । करिणो मदेन सुगन्धिं शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते कवयः । नगस्य वृक्षस्य स्कन्धं प्रकाण्डम् । अनुलीनवता । तत्र संश्लिष्टेनेत्यर्थः । लीयतेर्निष्टेति क्तवतुप्रत्ययः । `ल्वादिभ्यः` (अष्टाध्यायी ८.२.४४ ) इति निष्ठानत्वम् । स्थूलानामिन्द्रनीलशकलानामावलिवत्कोमलेन मनोहरेणालिनां वलयेन कण्ठेगुणत्वं कण्ठवलयत्वम् । `अमूर्धमस्तकात्स्वाङ्गादकामे` (अष्टाध्यायी ६.३.१२ ) इत्यलुक् । भेजे प्राप्तम् । कर्मणि लिट् । अत्रालिवलये इन्द्रनीलमयकण्ठभूषणत्वारोपाद्रूपकालंकारः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ण्डू तः टु भु वं रि णो दे
स्क न्धं सु न्धि नु ली ता स्य
स्थू ले न्द्र नी ला लि को ले
ठे गु त्व ली नां ये भे जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.