उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्त-
रुत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान्वशालशिरसो हरिचन्दनेषु
नागान्बबन्धुरपारान्मनुजा निरासुः ॥

मल्लिनाथः उष्णोष्णेति ॥ मनुजा नरा उष्णोष्णा उष्णप्रकाराः । `प्रकारे गुणवचनस्य` (अष्टाध्यायी ८.१.१२ ) इति द्विवचनम् । कर्मधारयवद्भावात्सुपो लुक् । तान् शीकरान् सृजन्ति मुञ्चन्तीति तथोक्तान् । क्विप् । अन्तः प्रबलोष्मणः प्रवृद्धतापान् । उत्फुल्लं विकचम् । `उत्फुल्लसंफुल्लयोरुपसंख्यानम्` (वा०) इत्युपसर्गेऽपि फुल्लेनिष्ठानत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभासः समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशालशिरसो विपुलमस्तकानेकान् कतिचिन्नागान् । गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । `तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्` इत्यमरः । बबन्धुः । अपरान्नागानहीनित्यर्थः । `दुष्टाब्भ्राहिगजा नागाः` इत्युभयत्रापि वैजयन्ती । निरासुनिष्कासयामासुः । अस्यतेर्लिट् । अत्रोभयेषामपि नागानां प्रकृतत्वात्केवलप्रकृतश्लेषः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ष्णो ष्ण शी सृ जः प्र लो ष्म णो ऽन्त
रु त्फु ल्ल नी लि नो तु ल्य भा सः
का न्व शा शि सो रि न्द ने षु
ना गा न्ब न्धु पा रा न्म नु जा नि रा सुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.