भास्वत्करव्यतिकरोल्लसिताम्बरान्त-
स्तापत्रपा इव महाजनदर्शनेन ।
संविव्युरम्बरविकासि चमूसमुत्थं
पृत्वीरजः करभकण्ठकडारमाशः ॥

मल्लिनाथः &#३२; भास्वदिति ॥ आशा दिशो भास्वत्करव्यतिकरेण सूर्यांशुव्याप्त्या उल्लसिताम्बरान्ताः प्रकाशिताकाशदेशाः । अन्यत्र भास्वान् भास्वरोऽभिरूपः । `भास्वान् भास्वरसूर्ययोः` इति विश्वः । तस्य हस्तस्य स्पर्शनेनोल्लसिताम्बरान्ताः स्रस्तवस्त्राञ्चलाः अत एव महाजनदर्शनेन सापत्रपा इव । `लज्जा सापत्रपान्यतः` इत्यमरः । अम्बरविकाशि व्योमव्यापि, वासश्शोभि च । `अम्बरं व्योमवाससोः` इति विश्वः । चमूषु समुत्थं करभ उष्ट्रपोतः । `उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः` इत्यमरः । तस्य कण्ठ इव कडारं कपिशम् । `कडारः कपिशः पिङ्गः` इत्यमरः । पृथ्वीरजः संविव्युः संवत्रुः । आच्छादयामासुरित्यर्थः । `व्येञ् संवरणे` लिट् । कित्त्वात्संप्रसारणे द्विर्भावः । `एरनेकाचो-` (अष्टाध्यायी ६.४.८२ ) इति यणादेशः । स्त्रियो वस्त्रापहारे लज्जया यत्किंचिदाच्छादयन्तीति भावः । अत्राचेतनास्वाशासु श्लिष्टविशेषणमहिम्ना स्त्रीप्रतीतौ तदभेदाध्यवसायेन संव्यानव्यवहारसमारोपात् समासोक्तिः । सा च सापत्रपत्वोत्प्रेक्षानुप्राणितेति संकरः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
भा स्व त्क व्य ति रो ल्ल सि ता म्ब रा न्त
स्ता त्र पा हा र्श ने
सं वि व्यु म्ब वि का सि मू मु त्थं
पृ त्वी जः ण्ठ डा मा शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.