Loading data... On slow networks this could take a few minutes.
100%

दानन्ददत्तयपि जलैः सहसाधिरूढे
को विद्यमानगतिरासितुमुत्सहते ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो-
र्मङ्क्षूदपाति परितः पटलैरसीनाम् ॥

मल्लिनाथः दानमिति ॥ दीयत इति दानं धनं मदश्च । `दानं गजमदे त्यागे` इति विश्वः । तद्ददति वितरत्यपि । दातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वादव्ययत्वमिति शाकटायनः । जलैर्जडैर्नीरैश्च । `जलं गोकलले नीरे हीबेरे च जडे. ऽन्यवत्` इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान् समर्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । `शकधृष-` (अष्टाध्यायी ३.४.६५ ) इत्यादिना तुमुन् । यसान्मिमङ्क्षोर्मङ्क्तुमिच्छोः । मज्जेः सन्नन्तादुप्रत्ययः । दन्तिनः कटो गण्डः स कटाहः खर्पर इव । `कटाहः खर्परस्तुपः` इति वैजयन्ती । तस्य तटाप्रदेशादलीनां पटलैः परितो मङ्क्षु द्राक् । `दाङ्मङ्क्षु सपदि द्रुतम्`&#३२; इत्यमरः । उदपाति उत्पतितम् । भावे लुङ् `चिण् भावकर्मणोः` (३।१६६) इति चिण् `चिणो लुक्` (अष्टाध्यायी ६.४.१०४ ) । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
दा न्द त्त पि लैः सा धि रू
ढे को वि द्य मा ति रा सि तु मु त्स ते
द्द न्ति नः टा टा न्मि ङ्क्षो
र्म ङ्क्षू पा ति रि तः लै सी नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.