गण्डूषमुज्झितवता पयसः सरोषं
नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभाग-
रुद्धोरुदन्तमुसलप्रसरं निपेते ॥

मल्लिनाथः गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा तथा पयसः पानीयस्य गण्डूषं मुखपूरणम् । मुखान्तर्गतं पय इत्यर्थः । गण्डूषो मुखपूरणः` इति हलायुधः । द्विलिङ्गत्वेऽपि पुंलिङ्गमेवाह वामनो लिङ्गाध्याहारावित्यत्र । उज्झितवता त्यक्तवता नागेन गजेन । `मतगजो गजो नागः` इत्यमरः । अम्भोधिरोधसि सागरतीरे । `दन्तयोरुभयोर्मध्यं प्रतिमानमिति स्मृतम्` । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू दन्तौ मुसलाविव तयोः प्रसरः प्रसारो यस्मिन्कर्मणि तत् । `अयोग्रो मुसलोऽस्त्री स्यात्` इत्यमरः । निपेते निपतितम् । भावे लिट् । क्रोधवेगादलब्धरोधाः प्रहृत्य पारवश्यात् स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्वन्तीति भावः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ण्डू मु ज्झि ता सः रो षं
ना गे ब्ध वा मा रु ते
म्भो धि रो सि पृ थु प्र ति मा भा
रु द्धो रु न्त मु प्र रं नि पे ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.