Loading data... On slow networks this could take a few minutes.
100%

अन्तर्जलौघमवगाढवतः कपोलौ
हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्यश्रयेष्वपि गणेषु रराज नीलो
वर्णः पृथग्गत इवालिगणो गजस्य ॥

मल्लिनाथः अन्तरिति ॥ जलौघे अन्तरित्यन्तर्जलौघम् । विभक्त्यर्थेऽव्ययीभावः । अथवा जलौघं जलपूरमन्तरभ्यन्तरेऽवगाढवतः प्रविष्टवतः । गाहेर्निष्ठाक्तवतुप्रत्ययः । ढत्वष्टुत्वढलोपाः । गजस्य कपोलौ हित्वा क्षणमन्तरीक्षे उपर्याकाशे विततपक्षतिविस्तृतपक्षमूलः । आमूलाद्विततपक्ष इत्यर्थः । `स्त्री पक्षतिः पक्षमूलम्` इत्यमरः । `पक्षात्तिः` (अष्टाध्यायी ५.२.२५ ) इति तिप्रत्ययः । अलिगणो भ्रमरसङ्घो गुणेषु रूपादिषु द्रव्यमाश्रयो येषां तेषु द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् , द्रव्यसमवेतत्वाच्च । द्रव्याधीनसत्ताकेषु सत्स्वपीत्यर्थः । पृथग्गतः जलमजनभयात् स्वाश्रयपरिहारेण स्थितो नीलो वर्णों नीलरूपं गजस्य नीलिमेव रराज । `गुणे शुक्लादयः पुंसि`, इत्यमरः । अत्रालिगणे सादृश्याद्गजनीलत्वाश्रयादन्यत उपलब्धिनिर्वाहाय पृथक् स्थितिविशिष्टत्वमुत्प्रेक्ष्यते
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
न्त र्ज लौ गा तः पो लौ
हि त्वा क्ष णं वि क्ष ति न्त री क्षे
द्र व्य श्र ये ष्व पि णे षु रा नी लो
र्णः पृ ग्ग वा लि णो स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.