कीर्णं शनैरनुकपोलमनेकपानां
हस्तौर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकाशिकाश-
नीकाशमाप समतां सितचामरस्य ॥

मल्लिनाथः &#३२; कीर्णमिति ॥ अनेकपानां द्विपानां विगाढः प्ररूढो यो मदेन तापः स एव रुक् रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तैरनुकपोलं कपोलयोः कीर्णं क्षिप्तम् । आकर्णं कर्णपर्यन्तम् । `आमर्यादाभिविध्योः` (अष्टाध्यायी २.१.१३ ) इत्यव्ययीभावः । उल्लसितमुत्पतितं विकासि यत् काशं काशकुसुमं तेन सदृशं काशनीकाशम् । नित्यसमासत्वादस्वपदविग्रहः । अत एव `स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रतीकाशोपमादयः` इत्यमरः। अम्बु पानीयं सितचामरस्य समतां सादृश्यमाप । `तुल्याथैः-` (२।३/७२) इत्यादिना षष्ठी । उपमालंकारः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
की र्णं नै नु पो ने पा नां
स्तौ र्वि गा ता रु जः मा
र्ण मु ल्ल सि म्बु वि का शि का
नी का मा तां सि चा स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.