पन्थानमाशु विजहीहि पुरः स्तनौ ते
पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।
स्तम्बेरमः पारिणिनंसुरावुपैति
षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥

मल्लिनाथः पन्थानमिति ॥ पन्थानमाशु विजहीहि । `ओहाक त्यागे` लोटि सेेर्ह्यादेशः। `आ च हौ` (अष्टाध्यायी ६.४.११७ ) इति विकल्पादीकारादेशः । पुरोऽने ते स्तनौ पश्यन् प्रतिद्विरदस्य कुम्भौ विशङ्कत इति तद्विशङ्कि चेतो यस्य सः । कुम्भभ्रान्तिमानित्यर्थः । अत एव भ्रान्तिमदलंकारः । स्तम्बे तृणे रमत इति स्तम्बेरमः । `इभः स्तम्बरमः पद्मी` इत्यमरः । `स्तम्बकर्णयो रमिजपोः` (अष्टाध्यायी ३.२.१३ ) इत्यच् प्रत्ययः । `तत्पुरुषे कृति बहुलम्` (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । परिणन्तुं तिर्यक्प्रहर्तुमिच्छुः परिणिनंसुः । नमेः सन्नन्तादुप्रत्ययः । `एकाच उपदेशेऽनुदात्तात्` (अष्टाध्यायी ७.२.१० ) इतीट्प्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपैष्यतीत्यर्थः । `यावत्पुरानिपातयोर्लट्` (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् । षिङ्गैर्विटैः । `षिङ्गः पाल्लविको विटः` इति कोशः । काचिदेवमुक्तरीत्या ससंभ्रमं ससत्वरमगद्यत गदिता
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
न्था मा शु वि ही हि पु रः स्त नौ ते
श्य न्प्र ति द्व कु म्भ वि ङ्गि चे ताः
स्त म्बे मः पा रि णि नं सु रा वु पै ति
षि ङ्गै द्य सं भ्र मे का चित्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.