Loading data... On slow networks this could take a few minutes.
100%

नादातुमन्यकरिमुक्तमदाम्बुतिक्तं
धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे
रिक्तोदपात्रकरमास्त चिरं जनौघः ॥

मल्लिनाथः नेति ॥ अन्यकरिणा प्रतिगजेन मुक्तेन मदाम्बुना तिक्तं सुरभि । `कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः` इति केशवः । अम्भ आदातुं ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छता । क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन नगसरितोऽवतारे तीर्थे रुद्धे सति जनौघः रिक्तान्युदपात्राणि येषु ते करा यस्मिंस्तद्यथा तथा चिरमास्त अतिष्ठत् । `आस उपवेशने` लङ्। `एकहलादौ पूरयितव्येऽन्यतरस्याम्` (अष्टाध्यायी ६.३.५९ ) इत्युदकशब्दस्योदादेशः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ना दा तु न्य रि मु क्त दा म्बु ति क्तं
धू ता ङ्कु शे वि हा तु पी च्छ ता म्भः
रु द्धे जे रि तः रु षा ता रे
रि क्तो पा त्र मा स्त चि रं नौ घः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.