तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्ग-
मभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल
लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥

मल्लिनाथः तमिति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्च । `कदली वैजयन्त्यां च रम्भायां हरिणान्तरे` इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपङ्क्तयो यस्य तमिति योज्यम् । उच्चैरुन्नतः विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरेलक्ष्मीं दधत् । स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलधुर्महान् स बलौघः सेनासङ्घो द्विपेन्द्रैस्तुलितान्यतुलान्यप्रतिमानि द्विपेन्द्रव्यतिरिक्तप्रतिमारहितान्युत्तुङ्गशृङ्गाणि यस्य तं तथोक्तमन्वचलं रैवतकमनु चचाल । तं प्रति ययावित्यर्थः । `अनुर्लक्षणे` (अष्टाध्यायी १.४.८४ ) इति कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धत्वात् गिरिधर्मयोगी बलौघः प्रतिगिरेर्लक्ष्मीमिव लक्ष्मीं दधातीति निदर्शनामुखेन प्रतियोगित्वेनोत्प्रेक्ष्यते इत्युत्प्रेक्षैवेयं श्लेषानुप्राणितेति संकरः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
तं द्वि पे न्द्र तु लि ता तु तु ङ्ग शृ ङ्ग
भ्यु ल्ल त्क लि का रा जि मु च्चैः
वि स्ता रु द्ध सु धो ऽन्व लं चा
क्ष्मीं त्प्र ति गि रे घु र्ब लौ घः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.