Loading data... On slow networks this could take a few minutes.
100%

सस्नुः पयः पपुरनेनिजुरम्बराणि
जक्षुर्बिसं धृतविकासिभिसप्रसूना ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-
दोषप्रवादममृजन्नगनिमन्गानाम् ॥

मल्लिनाथः सस्नुरिति ॥ सेनायां समेताः सैन्याः सैनिकजनाः । `सेनायां वा` (अष्टाध्यायी ४.४.४५ ) इति ण्यप्रत्ययः । नगनिम्नगानां याः श्रियः समृद्धयस्तासामनुपभोग उपभोगाभावः । क्वचित्प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । यथाऽदर्शनमश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यन्निरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । `मृजुष् शुद्धौ` अदादित्वाल्लङि शपो लुक् । `मृजेरजादौ क्लिति विभाषा वृद्धिर्वक्तव्ये ति विकल्पादृध्यभावः । मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । ष्णा शौचे`, `पा पाने` लिट् । अम्बराण्यनेनिजुरक्षालयन् । `णिजिर् शौचे` । जुहोत्यादित्वाल्लङि श्लो` (अष्टाध्यायी ६.१.१० ) इति विर्भावः । `सिजभ्यस्तविदिभ्यश्च` (अष्टाध्यायी ३.४.१०९ ) इति झेर्जुसादेशः । `णिजां त्रयाणां गुणः श्लौ` इत्यभ्यासस्य गुणः । धृतानि विकासिबिसप्रसूनानि विकसितपुष्कराणि यैस्ते । `विसप्रसूनराजीवपुष्कराम्भोरुहाणि च` मरः । बिसं मृणालं जक्षुर्भक्षयाञ्चक्रुः । घसेर्लिटि `गमहन-` (६।१/९८) इत्यादिना उपधालोपे चुत्वं `शासिवसिघसीनां च` (अष्टाध्यायी ८.३.६० ) इति षत्वम् । स्नानाद्युपभोगेनोक्तनैरर्थ्यं निराचारित्यर्थः । अत्र दोषमार्जनस्य स्नानादिना कृतत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स्नानादिक्रियासमुच्चयस्त्वङ्गमस्येति संकरः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्नुः यः पु ने नि जु म्ब रा णि
क्षु र्बि सं धृ वि का सि भि प्र सू ना
सै न्याः श्रि या नु भो नि र्थ त्व
दो प्र वा मृ न्न नि न्गा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.