नाभिह्रदैः परिगृहीतरयाणि निम्नैः
सत्रीणांबृहज्जघनसेतुनिवारितानि ।
जग्मुर्जलानि जलमुड्डकवाद्यवल्गु-
वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥

मल्लिनाथः नाभीति ॥ स्त्रीणां निम्नैर्गम्भीरैर्नाभिभिरेव हृदैः परिगृहीतरयाणि प्रतिषिद्धवेगानि बृहनिर्जघनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । `पश्वान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः` इत्यमरः । जलमेव २मैडकवाद्यं वाद्यविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं २मैड्डुकवद्ध्वनतीति प्रसिद्धम् । तेन वल्गु सुन्दरं यथा तथा वल्गद्भिश्चलैर्घनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि वा जलानि पूर्वोक्तनगनिम्नगासलिलानि मन्दं जग्मुः । अत्र जलमन्दगमनस्य विशेषणगत्या रयप्रतिबन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ना भि ह्र दैः रि गृ ही या णि नि म्नैः
त्री णां बृ ज्ज से तु नि वा रि ता नि
ग्मु र्ज ला नि मु ड्ड वा द्य ल्गु
ल्ग द्ध स्त स्ख लि ता नि न्दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.