आस्तीर्णतल्परचितावासथः क्षणेन
वेशयाजनः कृतनवकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्या-
न्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥

मल्लिनाथः आस्तीर्णेति ॥ क्षणेनास्तीर्णतल्पं वेश्यावृत्तेः शय्याप्रधानत्वात्प्रागेव सज्जितशय्यं यथा तथा रचितावसथः कल्पितनिकेतः । `स्थानावसथवास्तु` च इति कोशः । कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमतिरश्रान्तचित्तः । अगणिताध्वखेद इत्यर्थः । वेश्याजनः खिन्नानध्वश्रान्तानापतत आगच्छतो मनुष्यान् पुरुषान् चिरनिविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा । उपचारैः शीताम्बुताम्बूलदानादिसत्कारैः प्रत्यग्रहीत् । वशीचकारेत्यर्थः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्ती र्ण ल्प चि ता वा थः क्ष णे
वे या नः कृ र्म का म्यः
खि न्ना खि न्न ति रा तो नु ष्या
न्प्र त्य ग्र ही च्चि नि वि ष्ट वो चा रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.