त्रासाकुलः परिपतन्परितो निकेता-
न्पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाना-
माकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥

मल्लिनाथः त्रासेति ॥ त्रासाकुलो जनदर्शनाद्भयविह्वलोऽत एव निकेतान्निवेशान् परितः सर्वतः । `अभितःपरितः-` (वा०) इत्यादिना द्वितीया । परिपतन् धावन् मृगो हरिणः कैश्चिदपि धन्विभिर्धनुष्मद्भिः । `धन्वी धनुष्मान्धानुष्कः` इत्यमरः । व्रीह्यादित्वादिनिरिति स्वामी । पुंभिर्नान्वबन्धि नानुयातः । बध्नातेः कर्मणि लुङ् । तथाप्यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टाश्च ये नयनान्येवेषवस्तैर्हता ईक्षणश्रीर्यस्य सः । अतः क्वचिदपि न तस्थौ । किंतु वीरविशिखापाताभावेऽप्यङ्गनापाङ्गविशिखपातात्पलायित एवेति भावः । अत्र जनालोकनोत्थभयहेतुकस्य मृगानवस्थानस्याङ्गनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगात्प्रतीयमाना। हेतोश्व हतेक्षणश्रीरिति विशेषणगत्योक्तत्वात्काव्यलिङ्गमिति संकरः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्रा सा कु लः रि न्प रि तो नि के ता
न्पुं भि र्न कै श्चि पि न्व भि न्व न्धि
स्थौ था पि मृ गः क्व चि ङ्ग ना ना
मा र्ण पू र्ण ने षु ते क्ष श्रीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.