Loading data... On slow networks this could take a few minutes.
100%

इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः
शुश्राव सूततनयस्य तदा व्यलीकाः ।
रन्तुं निरन्तरमियेष ततोऽवसाने
तासां गिरौ च वनराजिपटं वसाने ॥

मल्लिनाथः इत्थमिति ॥ स हरिरित्थमनेन प्रकारेण । `इदमस्थमुः` (अष्टाध्यायी ५.३.२४ ) इति थमुप्रत्ययः । अव्यलीका अप्रियरहिताः । `व्यलीकं त्वप्रियेऽनृते` इत्यमरः । प्रियतमाः प्रेयस्य इव स्थिताः । कान्तासंमिता इत्यर्थः । व्यलीका विगतानृताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरः तदा शुश्राव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्तौ निरन्तरं नीरन्धं वनराजिरेव पटस्तं वसाने आच्छादयति । `वस आच्छादने` इति धातोः कर्तरि लटः शानजादेशः । गिरौ रैवतकाद्रौ रन्तुं क्रीडितुमियेष । तत्र वसतिं कर्तुमिच्छति स्मेत्यर्थः । उपमायमकयोः संसृष्टिः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् । `उक्ता वसन्ततिलका तभजा जगौ गः` इति
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
त्थं व्य ली काः प्रि मा सो ऽव्य ली कः
शु श्रा सू स्य दा व्य ली काः
न्तुं नि न्त मि ये तो ऽव सा ने
ता सां गि रौ रा जि टं सा ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.