दृष्ट्वेव निर्जतकलापभरामधस्ता-
द्व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रा-
त्संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥

मल्लिनाथः दृष्ट्वेति ॥ अधस्तात्तरुतले निर्जितः कलापभरो बर्हमारो यया ताम् । `कलापो भूषणे बर्हे` इत्यमरः । व्याकीर्णेन विक्षिप्तेन माल्येन कबरां शाराम् । `कबरः कर्बुरः शारः` इति हलायुधः । तरुण्याः कबरी केशपाशम् । `कबरी केशपाशोऽथ` इत्यमरः। `जानपद-` (अष्टाध्यायी ४.१.४२ ) इत्यादिना ङीष् । दृष्ट्वेवेत्युत्प्रेक्षा। सपदि चन्द्रका अस्य सन्तीति चन्द्रकवान् मयूरः द्रुमाग्रात् प्रादुद्रुवत् प्रद्रुतवान् । `दु गतौ` लुङि `णिश्रि-` (अष्टाध्यायी ३.१.४८ ) इत्यादिना च्लेश्वङादेशः । `अचि श्रुधातु-` (अष्टाध्यायी ६.४.७७ ) इत्यादिना उवङादेशः । तथा हि संघर्षिणा मत्सरिणा कर्त्रा गुणाभ्यधिकैर्गुणोत्कृष्टैः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकात् `ईषद्दुः-` (अष्टाध्यायी ३.३.१२६ ) इत्यादिना भावे खल्प्रत्ययः । `तयोरेव कृत्यक्तखलर्थाः` (३।४।७०) इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरीदर्शनहेतुकत्वपाठा.१ संहर्षिणा&#३२; मुत्प्रेक्ष्य तत्समर्थनासमर्थोऽयमर्थान्तरन्यासः कृत इत्यस्यानयाङ्गेन संकरः । न हि जितैर्जेतुरग्रे स्थातुमुचितमिति भावः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
दृ ष्ट्वे नि र्ज ला रा स्ता
द्व्या की र्ण मा न्य रां रीं रु ण्याः
प्रा दु द्रु त्स दि न्द्र वा न्द्रु मा ग्रा
त्सं र्षि णा गु णा भ्य धि कै र्दु रा पम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.