Loading data... On slow networks this could take a few minutes.
100%

कण्ठावसक्तमृदुबाहुलतातुरङ्गा-
द्राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव
गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥

मल्लिनाथः कण्ठेति ॥ तुरङ्गाद्राजावरोधनवधू: राज्ञामवरोधस्त्रिरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधिकारिणः कण्ठेषु स्वकीयेष्ववसक्ता मृदवो बाहुलतास्तदीया येषां ते तथोक्ताः सन्तः स्फुटं व्यक्तमालिङ्गनान्यापुरेव । अन्यथा दुरवरोहत्वाद्ध्याजाच्चेति भावः । आसां वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्तित्वाद्गण्डानां नैर्मल्याच्च न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापाचाराः पापलिङ्गानि प्रकाशयन्तीति भावः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ण्ठा क्त मृ दु बा हु ता तु ङ्गा
द्रा जा रो धू ता न्तः
लि ङ्ग ना न्य धि कृ ताः स्फु मा पु रे
ण्ड स्थ लीः शु चि या चु चु म्बु रा साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.