Loading data... On slow networks this could take a few minutes.
100%

रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा
वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायत निरन्तरसंनिवृष्टाः
पादा इवाभिवभुरावलयो रथानाम् ॥

मल्लिनाथः रोचिष्ण्विति ॥ रोचिष्णवो रोचनशीलाः । `अलंकृञ्-` (अष्टाध्यायी ३.२.१३६ ) इत्यादिना इष्णुच्प्रत्ययः । तेषां काञ्चनचयानां कनकचयानामंशुभिः पिशङ्गिताः पिशङ्गीकृता आशा याभिस्ताः वंशानां तत्तद्वाजकुलानां ध्वजैः प्रतिनियतकुलानामकुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव ध्वजैर्जलदसंहतिं मेघसंघातमु. ल्लिखन्त्यः आयतं दीर्घ निरन्तरं नीरन्ध्रं च संनिविष्टाः संस्थिता रथानामावलयो भूभर्तृ रैवतकाद्रेः पादाः प्रत्यन्तपर्वता इवाभिबभुः भान्ति स्म । आशापिशङ्गीकरणादिक्रियानिमित्ता जातिस्वरूपोत्प्रेक्षा
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
रो चि ष्णु का ञ्च यां शु पि ङ्गि ता शा
वं ध्व जै र्ज सं ति मु ल्लि न्त्यः
भू र्तु रा नि न्त सं नि वृ ष्टाः
पा दा वा भि भु रा यो था नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.