Loading data... On slow networks this could take a few minutes.
100%

यानाज्जनः परिजनैरवतार्यमाणा
राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
वक्रश्रियः सभयकौतुकमीक्षते स्म ॥

मल्लिनाथः यानादिति ॥ परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः । रुहेर्ण्यन्तात्कर्मणि लटः शानजादेशः। `रुहः पोऽन्यतरस्याम्` (अष्टाध्यायी ७.३.४३ ) इति पकारः । नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदल्लाः कञ्चुकिनो यासां ताः । `सौविदल्लाः कञ्चुकिनः` इत्यमरः । स्रस्ता अवरोपणसंक्षोभादपसृता अवगुण्ठनपटा नीरङ्गीवस्त्राणि यासां ताः । अत एव क्षणं लक्ष्यमाणा वक्रश्रियो यासां तास्तथोक्ता राज्ञी राजस्त्रीः । `पुंयोगादाख्यायाम्` (४।१|४८) इति ङीप् । जनः सभयकौतुकमीक्षते स्म । ताडनाद्भयं कामात्कौतुकम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
या ना ज्ज नः रि नै ता र्य मा णा
रा ज्ञी र्न रा ना कु सौ वि ल्लाः
स्र स्ता गु ण्ठ टाः क्ष क्ष्य मा
क्र श्रि यः कौ तु मी क्ष ते स्म
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.