Loading data... On slow networks this could take a few minutes.
100%

सिक्ता इवामृतरसेन मुहुर्जनानां
क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः
कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥

मल्लिनाथः सिक्ता इति ॥ अमृतरसेन सिक्ता इवेत्युत्प्रेक्षा । मुहुर्जनानां क्लान्तिच्छिदः श्रमहराः । कल्पद्रुमवदमृतसेकाभावादपि तद्वदाह्लादका इति भावः । शाखास्ववसक्तैर्लग्नैः वसनैराभरणैश्चाभिरामाः । एकत्र सेनास्थपितैः, अन्यत्र स्वप्रसूतैरिति भावः । वनवनस्पतयो वनवृक्षा विचित्रफलैर्वस्त्राभरणाद्यनेकफलयुक्तैः कल्पद्रुमैः । तत्रत्यैरिति शेषः । सह तदानीं विरेजुः । तद्वद्विरेजुरित्यर्थः । सहेति सादृश्ये । `सह साकल्यसादृश्ययोगपद्यसमृद्धिषु` इति विश्वः । तथा चोपमालंकारः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
सि क्ता वा मृ से मु हु र्ज ना नां
क्ला न्ति च्छि दो स्प स्त दा नीम्
शा खा क्त ना णा भि रा माः
ल्प द्रु मैः वि चि त्र लै र्वि रे जुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.