अग्रगतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकराणाकुलेन । यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥

मल्लिनाथः अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्यां वसतिं निवासम् । `वहिवस्यर्तिभ्यश्च` (उ० ५००) इति वसेरौणादिकोऽतिप्रत्ययः । परिगृह्यापतन्तीत्यापात्याः स्वयमाक्रमितुमागच्छन्तः । `भव्यगेय-` (अष्टाध्यायी ३.४.६८ ) इत्यादिना कर्तरि ण्यदन्तो निपातः । तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यग्रेण उद्वाहुनोद्यतहस्तेन । केनचिदिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवर्ग्याः स्वयूथ्याः प्लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । `दूराद्भूते च` (अष्टाध्यायी ८.२.८४ ) इति दूरादाह्वाने प्लुतविधानादिति भावः । आशु दूरान्मुहुराजुहुविरे आहूताः । ह्वयतेराङ्पूर्वात्कर्मणि लिट् `अभ्यस्तस्य च` (अष्टाध्यायी ६.१.३३ ) इति संप्रसारणे द्विर्वचनमुवङादेशश्च
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.