छायामपास्य महतीमपि वर्तमाना-
मागामिनीं जगृहिरे जनतास्रूणाम् ।
सर्वो हि नोपागतमप्यपचीयमानं
वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥

मल्लिनाथः &#३२; छायामिति ॥ जनानां समूहा जनताः । `ग्रामजनबन्धुसहायेभ्यस्तल्` (अष्टाध्यायी ४.२.४३ ) ।तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनी छायां जगृहिरे । वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथा हि—सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमानम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किं त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
छा या पा स्य ती पि र्त मा ना
मा गा मि नीं गृ हि रे ता स्रू णाम्
र्वो हि नो पा प्य ची मा नं
र्धि ष्णु मा श्र ना भ्यु पै ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.