विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः । चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥
विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः । चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥
मल्लिनाथः
बिभ्राणयेति ॥ अन्ये भूपतयः याव एव यावकोऽलक्तकः । `राक्षा लाक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः` इत्यमरः । `यावादिभ्यः कन्` (अष्टाध्यायी ५.४.२९ ) इति स्वार्थे कन् । बहलेन यावकपङ्केन पिङ्ग पिङ्गलं पिच्छं बर्हमेवावचूडमधोलम्बिकलापं बिभ्राणया `अस्योचूडावचूडाख्यावूर्ध्वाधोमुखचूडको` इति ध्वजाङ्गेषु हलायुधः । चञ्चुः त्रोटिः । `चञ्चुस्त्रोटिरुभे स्त्रियाम्` इत्यमरः । तस्या अग्रेण दृष्टा चटुला चञ्चला अहिरेव पताका यस्यां तया उरगाशनो गरुडस्तस्य केतुयष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तया, अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितान्नियतदिक्कान् स्वावासान्निश्चित्य जग्मुरित्यर्थः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.