उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥
उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥
मल्लिनाथः
उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनो भूपतयो मृगेन्द्रान् सिंहान् विद्विषः शत्रूनिव प्रसभं प्रसह्योच्छिद्य हत्वा वन्येभानां मस्तकेषु निखातैर्निक्षिप्तैर्नखाग्रैः सिंहनखमुखैर्मुक्तान् विकीर्णान् मुक्ताफलप्रकरान् भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः । विद्विप इवेति लिङ्गादध्यवात्सुः अध्युषितवन्तः । `उपान्वध्याङ्गसः` (अष्टाध्यायी १.४.४८ ) इति कर्मत्वम् । `वस निवासे` लुङि सिचि वृद्धिः । `सः स्यार्धधातुके` (अष्टाध्यायी ७.४.४९ ) इति तत्वम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.