Loading data... On slow networks this could take a few minutes.
100%

नीहारजालमालिनः पुनरुक्तसा-
न्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः
पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः ॥

मल्लिनाथः नीहारेति ॥ नीहारजालवत्तुहिनव्यूहवन्मलिनो वधूजनविलोचनानां पक्ष्म मालाः पुनरुक्तसान्द्राः द्विगुणसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रत्वादिति भावः । मयूरच्यंसकादित्वाद्विस्पष्टबहुवत्समासः । क्षणं यदूनां बलैः सैन्यैः क्षुण्णोऽद्रेरुत्थितो दिवमाकाशमातनितुमवतनितुमिच्छुरातितांसुः । तनोतेः सन्नन्तादुप्रत्ययः । `सनीवन्तर्ध-` (अष्टाध्यायी ७.२.४९ ) इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाद्वैकल्पिक इड्भावः । `तनोतेर्विभाषा` (अष्टाध्यायी ६.४.१७ ) इति दीर्घः । पांशुर्दिशां मुखमतुत्थयदाच्छादयति स्म । `तुत्थ आच्छादने` इति धातोश्चौरादिकाल्लङ्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
नी हा जा मा लि नः पु रु क्त सा
न्द्राः कु र्न्व धू वि लो क्ष्म मा लाः
क्षु ण्णः क्ष णं दु लै र्दि मा ति तां सुः
पां शु र्दि सां मु तु त्थ दु त्थि तो ऽद्रेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.