तेजोनिरोधसमतावहितेन यन्त्रा
समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चै-
श्चित्रं चकार पदमर्दपुलायितेन ॥
तेजोनिरोधसमतावहितेन यन्त्रा
समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चै-
श्चित्रं चकार पदमर्दपुलायितेन ॥
समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चै-
श्चित्रं चकार पदमर्दपुलायितेन ॥
मल्लिनाथः
तेज इति ॥ तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोऽन्तःसारवि शेषः । यथाह भोजराजः-`तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः । क्रोधस्तम इति ज्ञेयास्त्रयोऽपि सहजा गुणाः ॥` इति । तच्च द्विविधं सततोत्थितं भयोत्थितं चेति । यथाह स एव-`धारासु योजितानां च निसर्गात्प्रेरणं बिना। अविच्छिन्नमिवाभाति तत्तेजः सततोत्थितम् ॥ कशापादादिघातैर्यत्साध्वसात्स्फुरितं तु तत् ॥` इति । अत्र तेजःशब्देन तत्कार्यं वेगो लक्ष्यते । तथा च तेजसि वेगे निरोधे तन्निवारणे समतायां वेगसाम्ये चावहितेन । वल्गाविभागकुशलेनेत्यर्थः । कशा ताडनी । `अश्वादेस्ताडनी कशा` इत्यमरः । अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासंख्यं मृदुसमनिष्ठुरसकृद्द्वित्रिरूपं त्रितयं तस्य विचारः । एतेषु निमित्तेष्वङ्गेष्वेवं ताड्य इति विमर्शः । तद्वता तज्ज्ञेन । यथाह भोजः-`मृदुनैकेन घातेन दण्डकालेषु ताडयेत् । तीक्ष्णं मध्यं पुनर्द्वाभ्यां जघन्यं निष्ठुरैस्त्रिभिः । उपवेशेऽथ निद्रायां स्खलिते दुष्टचेष्टिते । वडवालोकनौत्सुक्ये बहुगर्वितहेषिते ॥ संत्रासे च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये संजाते चित्तविभ्रमे ॥ दण्डः प्रयोज्यो वाहानां कालेषु द्वादशस्वपि । ग्रीवायां भीतमाहन्यात्रस्तं चैव च वाजिनम् ॥ विभ्रान्तचित्तमधरे त्यक्तशिक्षं च ताडयेत् । प्रहेषितं स्कन्धबाह्वोर्वडवालोकितं तथा ॥ उपवेशे च निद्रायां कटिदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा ॥ जघने स्खलितं हन्यान्नेत्रमार्गे दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत् ॥` इति । एवंभूतेन यन्त्रा सादिना सम्यग्यथाशास्त्रं नियुक्त ईरितः उच्चैरुन्नत आरट्टोऽश्वयोनिदेशविशेषः तज्जोऽश्व आरट्टजः । विशेषणमात्रप्रयोगे सागराम्बरादिवत्तावतैव विशेष्यप्रतीतेरित्याह वामनः । विशेषणप्रयोगो विशेष्यप्रतिपत्ताविति । चटुलश्चपलो निष्ठुरः परुषश्च पातः प्रक्षेपो यस्मिन्कर्मणि तद्यथा तथा । अर्धपुलायितेन मण्डलगतिविशेषेण चित्रमभ्दुतं पदं पदक्रमं चकार । `शतार्धार्धक्रमादूनैर्मण्डलायितवलिगतैः । उन्मुखस्याश्वमुख्यस्य गतिरर्धपुलायितम् ॥` इति लक्षणात् । पुला नाम प्लुताद्यनेकापरनामा हयानां गतिविशेषः । तदुक्तं हयलीलावत्याम्-`प्लुतां प्लवङ्गितामाहुर्या धारा पुलनाभिधा । पुनरेनां रलोपान्तां पुलामित्याह देशिकः ॥` तल्लक्षणं च तत्रैवोक्तम्-`क्षिपति समविशेषानुत्क्षिपत्यग्रपादान् प्रसरति पुरतोऽश्वः साथ धारा पुलाख्या । विलसति समपादोत्क्षेपणाकुञ्चनानां करुणमिह गतिज्ञाः प्राहुरन्ये पुलाख्याम् ॥` इति । `पार्ष्णिप्रधानं प्रविधाय रागाद्वल्गां श्लथीकृत्य वहेत्पुलाख्याम्` इत्यादि । पुलाख्यया अयितं गतिः पुलायितम् । `अय गतौ` भावे क्तः । तच्छतार्धेत्याधुक्तरीत्याऽनुष्ठितमर्धपुलायितमित्यलमतिविस्तरेण
छन्दः
वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ते | जो | नि | रो | ध | स | म | ता | व | हि | ते | न | य | न्त्रा |
| स | म | य्क्क | शा | त्र | य | वि | चा | र | वा | ता | नि | यु | क्तः |
| आ | रा | ट्ट | ज | श्च | टु | ल | नि | ष्ठु | र | पा | त | मु | च्चै |
| श्चि | त्रं | च | का | र | प | द | म | र्द | पु | ला | यि | ते | न |
| त | भ | ज | ज | ग | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.