उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु । पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥
उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु । पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥
मल्लिनाथः
उद्यदिति ॥ खुराः शफानि । `शफं क्लीवे खुरः पुमान्` इत्यमरः । तेषामभिघातादुद्यन्तः कृशानुशकलाः स्फुलिङ्गा येभ्यस्तेषु । टङ्कप्रायाः खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिलाफलकानि तैराचितेष्वास्तृतेषु शैलस्य पर्यन्तवर्त्मसु प्रान्तमार्गेषु महाश्वा दर्दुराणां वाद्यविशेषाणां पुटान् मुखानि वादयन्त इव विचक्रमिरे जग्मुः । पादन्यासैस्तादृशं शब्दमकुर्वन्नित्यर्थः । `वेः पादविहरणे` (अष्टाध्यायी १.३.४१ ) इत्यात्मनेपदम् । `दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः` इत्यमरः । उत्प्रेक्षालंकारः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.