राजीवराजीवशलोलभृङ्गं
मुष्णान्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां
रक्षोभिरक्षेभितमुद्वहन्तम् ॥

मल्लिनाथः राजीवेति ॥ पुनः राजीवराजीनां पद्मपङक्तीनां वशा अधीना लोलाश्चला भुंगा यस्मिंस्तं राजीवराजीवशलोलभृङ्गं तरूणां ततिभिः सङ्घैरुष्णमातपं मुष्णन्तं हरन्तं कान्ता रम्या अलकान्ताश्चूर्णकुन्तलाग्राणि यासां ताः कान्तालकान्ताः । "अलकाश्चूर्णकुन्तलाः` इत्यमरः । सुराणां ललनाः स्त्रियोऽप्सरसो रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम्
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
रा जी रा जी लो भृ ङ्गं
मु ष्णा न्त मु ष्णं ति भि स्त रू णाम्
का न्ता का न्ता नाः सु रा णां
क्षो भि क्षे भि मु द्व न्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.