Loading data... On slow networks this could take a few minutes.
100%

विलम्बिनीलोत्पलकर्णपूरा
कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः
शुचीरपःशैवलनीर्दधानम् ॥

मल्लिनाथः विलम्बीति ॥ विलम्बिनो नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासां ताः । लोध्रेण लोध्ररजसा गौरीरवदाताः । `षिद्गौरादिभ्यश्च` (अष्टाध्यायी ४.१.४१ ) इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपमान्तरमाह-नवा उलपा बल्वजतृणानि । `उलपा बल्वजाः प्रोक्ताः` इति विश्वः। तैरलंकृतानां सैकतानामाभेवाभा यासां ताः । कुतः । शुचीः शुद्धाः शैवलवतीरपो दधानम् । शुचित्वशैवलत्वाभ्यां बिम्बप्रतिबिम्बभावेनोपमाद्वयम्
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
वि म्बि नी लो त्प र्ण पू रा
पो भि त्ती रि लो ध्र गौ रीः
वो पा ङ्कृ सै ता भाः
शु ची पः शै नी र्द धा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.