मुदे मुरारेरमरैः सुमेरो-
रानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीना-
मुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥

मल्लिनाथः मुद इति ॥ मुरारेर्मुदे संतोषायामरैः कर्तृभिः सुमेरोः शृङ्गैः करणैरानीयोपचितस्य वर्धितस्य । आनीतैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामर्थादानयनकर्मत्वम् । यस्य शैलस्योच्छ्रायः औन्नत्यं, सौन्दर्यं च तयोर्गुणा उत्कर्षा उद्दामगिरां प्रगल्भवाचां कवीनां मृषा उद्यन्त इति मृषोद्याः मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसं भवादिति भावः । `राजसूयसूर्यमृषोद्य-`(अष्टाध्यायी ३.१.११४ ) इत्यादिना वदेः क्यबन्तो निपातः । उत्कृष्टः श्राय उच्छ्राय इति घञन्तेनोपसर्गस्य समासः । न तूपसृष्टाद्धञ्प्रत्ययः । “श्रिणीभुवोऽनुपसर्गे` (अष्टाध्यायी ३.३.२४ ) इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मु दे मु रा रे रैः सु मे रो
रा नी स्यो चि स्य शृ ङ्गैः
न्ति नो द्दा गि रां वी ना
मु च्छ्रा सौ न्द र्य गु णा मृ षो द्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.