Loading data... On slow networks this could take a few minutes.
100%

स्कन्धाधिरूढोज्ज्वलनीलकण्ठा-
नुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रा-
न्रुद्राननेकानिव धारयन्तम् ॥

मल्लिनाथः स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्ज्वला नीलकण्ठा मयूरा येषां तान् , अन्यत्र स्कन्धाधिरूढा अंसस्थिता नीलाः कण्ठा येषां तान् । `अंसप्रकाण्डयोः स्कन्धः` इति विश्वः । अहीन्द्रैः श्लिष्टतनून् व्याप्तदेहान् । एकत्र तदावासस्वादन्यत्र तद्भूषणत्वाच्चेति भावः । प्रनर्तितान्यनेकलतानामेव भुजानां लताना मिव च भुजानामग्राणि येषां तानत एवानन्तानसंख्यान् रुद्रानिव स्थितानित्युप्रेक्षा । उर्वीरुहो वृक्षान् धारयन्तमुद्वहन्तम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्क न्धा धि रू ढो ज्ज्व नी ण्ठा
नु र्वी रु हः श्लि ष्ट नू ही न्द्रैः
प्र र्ति ता ने ता भु जा ग्रा
न्रु द्रा ने का नि धा न्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.