Loading data... On slow networks this could take a few minutes.
100%

छायां निजस्त्रीचटुलालसानां
मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रै-
र्विहङ्गमानां जलजातपत्रै ॥

मल्लिनाथः छायामिति ॥ पुनः निजस्त्रीणां चटुषु प्रियवचनेषु लालसा लोलुपाः । `लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च` इति यादवः। तेषां निजस्त्रीचटुलालसानां मदेन किंचिदीषच्चटुलाश्चपलास्तेऽलसाश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहंगमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिञ्जलजातानि । पूर्ववत् समासः । तानि पत्राणि येषां तैरुत्पिञ्जलजातपत्रैः । उत्पिञ्जरीभूतदलैरित्यर्थः । रलयोरभेदः। जलजातपत्रैः जलजैरेवातपत्रैः छायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिर्व्योज्यते । यमकरूपकयोः संकरः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
छा यां नि स्त्री टु ला सा नां
दे कि ञ्चि च्च टु ला सा नाम्
कु र्वा मु त्पि ञ्ज जा त्रै
र्वि ङ्ग मा नां जा त्रै
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.