Loading data... On slow networks this could take a few minutes.
100%

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥

मल्लिनाथः दधद्भिरिति ॥ अत्राद्रौ माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तौ विकचवारिजाम्बू अभित उभयतस्तटौ दधद्भिर्नदैरम्बुप्रवाहैः । प्राक्स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विनेत्याहुः । विनोदितो दिनक्लमो येषां ते । विहारापनीताह्निकसंतापा इत्यर्थः । किंच जाम्बूनदस्य विकारैर्जाम्बूनदैः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । `रसो गन्धे रसे स्वादे` इति विश्वः । कादम्ब इक्षुः । `कादम्बः कलहंसेक्ष्वोः` इति विश्वः । कादम्बं राति रलयोरभेदाल्लाति प्रकृतित्वेनादत्त इति कादम्बरमैक्षवम् । `पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम्` इति स्मरणात् । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) । मधु मद्यम् । एवं च मधुकादम्बरशब्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणां पैष्ट्या एव निषेधादिति भावः । रतये सुरतार्थं रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गात्रादम्बरं वस्त्रं हरन्ति । यादवाश्चेह मधुपानरतोत्सवैर्विस्रब्धं विहरन्तीति भावः । पृथ्वीवृत्तम् । `जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः` इति लक्षणात्
छन्दः पृथ्वी [१७: जसजसयलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
द्भि भि स्त टौ वि वा रि जा म्बू दै
र्वि नो दि दि क्ल माः कृ रु श्च जा म्बू दैः
नि षे व्य धु मा वाः त्र का म्ब रं
न्ति ये हः प्रि मा ङ्ग का म्ब रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.