Loading data... On slow networks this could take a few minutes.
100%

दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः
खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥

मल्लिनाथः दर्पणेति ॥ इहाद्रौ रविर्दर्पणनिर्मलासु पुरः रौप्यभित्तिषु । काञ्चनकंदराग्रवर्तिरजतसानुषु पतिते संक्रान्ते घनं सान्द्रं यत्तिमिरं तन्मुष्णाति हरतीति तन्मुट् । क्विप् । तस्मिञ्ज्योतिषि स्वतेजसि काञ्चनकंदरासु मुहुः प्रतिफलति संमूर्च्छति सति रमणैरपहृतवसनास्तरुणीरसंमुखोऽपि कंदरानभिमुखोऽपि व्रीडं त्रपाम् । यद्यपि `गुरोश्च हलः` (अष्टाध्यायी ३.३.१०३ ) इति स्त्रियामप्रत्ययः । अत एव मन्दाक्षं हीस्त्रपा व्रीडा` इत्यमरः । तथापि तत्र स्त्रीत्वाविवक्षायां बाहुलकत्वान्नपुंसकत्वं च । अत एव `अविधौ गुरोः स्त्रियां बहुलविवक्षा` इति वामनः । नयति प्रापयति । `नीवह्योर्हरतेश्चैव` इति द्विकर्मकता । यस्मिन् सुवर्णकंदरासु क्रीडार्थं प्रविष्टाः स्त्रियोऽन्धकार इति कृत्वा पुरुषैरपहृतवस्त्राः सत्यः । पुरःस्थितरौप्यभित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सलज्जा इति भावः । अत्र काञ्चनकंदराणामसंमुखार्कज्योतिःप्रतिफलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । वंशपत्रपतितं वृत्तम् । `दिङ्गुनि वंशपत्रपतितं भरनभनलगैः` इति लक्षणात्
छन्दः वंशपत्रपतितम् [१७: भरनभनलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
र्प नि र्म ला सु ति ते ति मि मु षि
ज्यो ति षि रौ प्य भि त्ति षु पु रः प्र ति ति मु हुः
व्री संं मु खो ऽपि णै हृ नाः
खा ञ्च न्द रा सु रु णी रि ति विः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.