नवनगवनलेखाश्यामध्याभिराभिः
स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागै-
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥

मल्लिनाथः नवेति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपङ्त्कया श्यामो मध्यो मध्यभागो यासां ताभिराभिः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरेव परिकरो गात्रिकाबन्धस्तं भजतीति तस्याहिपरिकरभाजः । `भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि` इति विश्वः । `भजो ण्विः` (अष्टाध्यायी ३.२.६२ ) । भास्मनैर्भस्ममयैः । वैकारिकोऽणप्रत्ययः । अणिति प्रकृतिभावात् `नस्तद्धिते` (अष्टाध्यायी ६.४.१४४ ) इति टिलोपो न । अङ्गरागैरनुलेपनैरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूलपाणेरीश्वरस्य । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` (वा०) । अभिख्यां शोभाम् । `अभिख्या नामशोभयोः` इत्यमरः । `आतश्चोपसर्गे (अष्टाध्यायी ३.३.१०६ ) इत्यङ्प्रत्ययः । नाटयत्यनुकरोति । निदर्शनालंकारः । मालिनी वृत्तमेतत्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ले खा श्या ध्या भि रा भिः
स्फ टि भू मि ना त्ये शै लः
हि रि भा जो भा स्म नै ङ्ग रा गै
धि लि म्नः शू पा णे भि ख्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.