प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते । सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥
प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते । सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥
मल्लिनाथः
प्रालेयेति ॥ ईश्वरः शिवोऽपि, किमुतान्य इति भावः । सान्द्रं यदिभचर्म तदेव वसनं तदेवावरणं छादनं यस्य सः तथा सन् । न त्वनावरणो नापि शिथिलावरण इति भावः । प्रलयादागतं प्रालेयं हिमम् । `तत आगतः` (अष्टाध्यायी ४.३.७४ ) इत्यणि `केकयमित्रयुप्रलयानां यादेरियः` (अष्टाध्यायी ७.३.२ ) इति यशब्दस्येयादेशः । तेन शीतं शीतलमचलेश्वरं हिमवन्तमधिशेते । तस्मिञ्शेत इत्यर्थः । अधिशीङ्स्थासां कर्म` (अष्टाध्यायी १.४.४६ ) इति कर्मत्वम् । सर्वर्तुभिर्निर्वृतिकरे सदासुखकर इहाद्रौ निवसन पुनर्नास्ति किंचनास्येत्यकिंचनो निःस्वोऽपि । उच्चावचेत्यादिना मयूरव्यंसकादिषु निपातनात्तत्पुरुषः । किंचिदल्पमपि द्वन्द्वदुःखं शीतोष्णदुःखं नोपैति । नित्यं संनिहितानामृतूनामन्योन्यदोषनिवारकत्वादिति भावः । `द्वन्द्वं युग्महिमोष्णादि मिथुनं कलहो रहः` इति वैजयन्ती । अत्रोपमानाद्धिमाचलादुपमेयस्याधिक्यवर्णनाद्व्यतिरेकः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.