भग्ने निवासोऽयमिहास्य पुष्पैः
सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितोऽसौ
ससानतोयेन विषाणि नागः ॥

मल्लिनाथः भग्न इति ॥ इहाद्रौ अस्य नागस्य निवास आश्रयः सदा पुष्पैरानतो नम्रोऽयं न गच्छतीत्यगो वृक्षो दानतोयैर्मदोदकैः सह वर्तते यस्तेन सदानतोयेन । मत्तेनेत्यर्थः । येन विषाणिना दन्तिना भग्नस्तेन विषाणिना कोपितः कोपं प्रापितोऽसौ नागः सर्पस्तीव्राणि विषाणि गरलान्युज्झति वमति । परप्रतीकाराक्षमस्य क्रोधः स्वाश्रयमेव व्याहन्तीति भावः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ग्ने नि वा सो ऽय मि हा स्य पु ष्पैः
दा तः ये वि षा णि ना गः
ती व्रा णि ते नो ज्झ ति को पि तो ऽसौ
सा तो ये वि षा णि ना गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.