Loading data... On slow networks this could take a few minutes.
100%

प्रीत्यै यूनां व्यवहिततपनाः
प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति
सुरतक्रीडायासश्रमपटवः ॥

मल्लिनाथः &#३२; प्रीत्यै इति ॥ इहाद्रौ युवतयश्च युवानश्च तेषां यूनाम् । `पुमान्स्त्रिया` (१॥ २।६७) इत्येकशेषः । प्रीत्यै व्यवहिततपनाः तिरोहितार्काः । अत एव सुरतान्येव क्रीडास्ताभिर्य आयासो व्यायामस्तेन यः श्रमः खेदः । `श्रमः खेदोऽध्वरत्यादेः` (दशरूपके ४।१२) इति लक्षणात् । तस्य शमे वारणे पटवः समर्था जलदाः प्रौढध्वान्तं मेघावरणाद्गाढान्धकार दिनं दिवसं दोषां रात्रिमात्मानं मन्यत इति दोषामन्यं रात्रिमानिनं विदधति । मेघावरणमहिम्ना दिवसः स्वयमप्यात्मानं रात्रिं मन्यते, किमुतान्य इत्यर्थः । दोषेत्यव्ययं तदुपपदान्मन्यतेर्धातोः `आत्ममाने खश् च` (अष्टाध्यायी ३.२.८३ ) इति खशप्रत्ययः । इह यूनां दोषावद्दिवापि विस्रम्भं विहाराः संभवन्तीति भावः । भ्रमरविलसितं वृत्तम् । `म्भौ न्लौ गः स्याभ्द्रमरविलसितम्` इति लक्षणात्
छन्दः भ्रमरविलसितम्
छन्दोविश्लेषणम्
१० ११ १२
प्री त्यै यू नां व्य हि नाः
प्रौ द्वा न्तं दि मि दाः
दो षा न्यं वि धा ति
सु क्री डा या श्र वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.