त्वक्साररन्ध्रपरिपूरणलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ॥

मल्लिनाथः त्वगिति ॥ अस्मिन्नद्रौ त्वचि सारो येषां ते त्वक्सारा वंशाः । `वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः` इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणेन ध्मापनेन लब्धा गीतिर्गानसुखं येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां, कम्बलानां वाङ्गानि शरीराणि येन सः । `रल्लकः कम्बलमृगे कम्बले परिकीर्तितः` इति वैजयन्ती । एतेन स्पर्शसुखमुक्तम् । कस्तूरिकामृगाणां विमर्दैन संघर्षेण सुगन्धिः शोभनगन्धः । यद्यपि गन्धस्यत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम् , तथापि `निरङ्कुशाः कवयः` इत्यपर्यनुयोगः । असावेवंभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । `विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च` इति विश्वः । अधिकां सक्तिं व्यासक्तिमेति गच्छति
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्व क्सा न्ध्र रि पू ब्ध गी ति
स्मि न्न सौ मृ दि क्ष्म ल्ल का ङ्गः
स्तू रि का मृ वि र्द सु न्धि रे ति
रा गी क्ति धि कां वि ये षु वा युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.