इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः
कनकरत्नभुवां च मरीचयः ॥

मल्लिनाथः इहेति ॥ इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः कलभः करिशावकः` इत्यमरः । दिशि दिशि प्रतिदिशं । यथार्थेऽव्ययीभावः । `अव्ययीभावे शरत्प्रभृतिभ्यः` (अष्टाध्यायी ५.४.१०७ ) इति समासान्तोऽच्प्रत्ययः। कलश्चासौ भैरवश्व कलभैरवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्नानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालंकारे यमकस्याभ्युञ्चयः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
मु हु र्मु दि तैः भै वः
प्र ति दि शं क्रि ते भै वः
स्फु ति चा नु नं री यः
त्न भु वां री यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.