Loading data... On slow networks this could take a few minutes.
100%

एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ॥

मल्लिनाथः एतस्मिन्निति ॥ एतस्मिन्नद्रौ अधिकपयःश्रियमधिकां जलसमृद्धिं वहन्त्यः, अन्यत्र तु अधिकाः कपयः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालंकारादिशोभां वहन्त्यः । पवनाद्भवतीति पवनभूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । `जवो जविनि वेगे स्यात्` इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यंं नीताः । हनुमद्वेगवर्णनया प्रागल्भ्यं नीता इत्यर्थः । वाक्पक्षे सर्वत्र षष्ट्या विपरिणामः कार्यः । महासरस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्मणौ याभिस्तासाम् , अन्यत्र तु रामो रमणः अरहितरामा अवियुक्तरामाः लक्ष्मणाः सारसयोषितो यासु ताः । केचि. त्त्वरहितरामा अवियुक्तस्त्रीकाः लक्ष्मणाः सारसा इति पुंपक्षिपरत्वेन व्याचक्षते । तेषां `हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा` । `लक्ष्मणौषधिसारस्योः` इत्याद्य मरविश्वप्रकाशादिवाक्यगतनियतस्यर्थताविरोधः । तासां वाल्मीकेर्गिरां साधर्म्यं सादृश्यं दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्तावलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गेनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छब्दयोरेव मिथः श्लिष्टत्वाच्छन्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्मि न्न धि यः श्रि यं न्त्यः
सं क्षो भं भु वा वे नी ताः
वा ल्मी के हि रा क्ष्म णा नां
सा र्म्यं ति गि रां हा स्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.