Loading data... On slow networks this could take a few minutes.
100%

सायं शशाङ्गकिरणाहतचन्द्रकान्त-
निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्ता-
स्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥

मल्लिनाथः सायमिति ॥ इहाद्रौ वप्राः सानवः । `वप्रोऽस्त्री सानुमानयोः` इत्यमरः । सायं रात्रौ शशाङ्ककिरणैराहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्राविणा नीरनिकरेण जलपूरेण कृताभिषेकाः कृतस्नानाः । अह्नि अर्कोपलेभ्यः सूर्यकान्तेभ्य उल्लसितैरुत्थितैर्वह्निभिस्तप्ताः सन्तस्तीव्रमुग्रं दुश्चरं महाव्रतं महातपश्चरन्तीवेत्युत्प्रेक्षा
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
सा यं शा ङ्ग कि णा न्द्र का न्त
नि स्य न्दि नी नि रे कृ ता भि षे काः
र्को लो ल्ल सि ह्नि भि ह्नि प्ता
स्ती व्रं हा व्र मि वा त्र ति प्राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.