Loading data... On slow networks this could take a few minutes.
100%

या बिभर्ति कलवल्लकीगुण-
स्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया
स्वानमानमति कालिमालया ॥

मल्लिनाथः येति ॥ अत्राद्रौ अत्यत्यन्तः कालिमा कार्ष्ण्यं यस्याः साऽतिकालिमा । अतिश्यामेत्यर्थः । न विद्यते लयो लयनं क्वचिदवस्थानं यस्याः सा अलया। भ्रमन्तीत्यर्थः । अत एव सस्वनेति भावः । या अलिमाला कलोऽव्यक्तमधुरः वल्लकीगुणस्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं विभर्ति । तन्त्रीवद्ध्वनतीत्यर्थः । उपमालंकारः । उपगीतया समीपे गातुं प्रवृत्तयैव, न तु पूर्वं गायन्त्येवेति भावः । `आदिकर्मणि क्तः कर्तरि च` (अष्टाध्यायी ३.४.७१ ) इति क्तः । तयाऽलिमालया भृङ्गावल्या स्वानमा सुखेनानमयितुमाक्रष्टुं शक्या `ईषद्दुस्` (अष्टाध्यायी ३.३.१२६ ) इत्यादिना स्वल्पत्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं सद्यः प्रणमत्येव, तथोद्दीपकत्वाद्गानस्येत्यर्थः । रथोद्धता वृत्तम् । `रो नराविति रथोद्धता लगौ` इति लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
या बि र्ति ल्ल की गु
स्वा मा ति का लि मा या
ना त्र का न्त मु गी या या
स्वा मा ति का लि मा या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.