प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥

मल्लिनाथः प्राग्भागत इति ॥ इहाद्रौ प्राग्भागत ऊर्ध्वप्रदेशादुपत्यकास्वधःप्रदेशेषु । `उपत्यकाद्रेरासन्ना` इत्यमरः । `उपाधिभ्याम्-` (अष्टाध्यायी ५.२.३४ ) इत्यादिनोपशब्दा. त्यकन्प्रत्ययः । पतत् शृङ्गारः सिन्दूरादिमण्डनमस्य संजातः शृङ्गारितः । `शृङ्गारः सुरते नाट्ये रसे दिग्गजमण्डने` इति विश्वः । आयतो दीर्घः तस्य महेभकरस्याभेवाभा यस्य तत् विविधरत्नानां करैरंशुभिरनुविद्धमनुरञ्जितमिदमम्भ ऊर्ध्वप्रसारितं यत् सुराधिपचापमिन्द्रधनुस्तद्वच्चारु संलक्ष्यते । अत्रेन्द्रचापस्योर्ध्वत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । अभूतोपमेति मतान्तरम् । तिरोहितविवक्षायां तूपमानस्य प्रसिद्धत्वादुपमैवेयम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
प्रा ग्भा तः दि हे मु त्य का सु
शृ ङ्गा रि ता हे रा म्भः
सं क्ष्य ते वि वि त्न रा नु वि द्ध
मू र्ध्व प्र सा रि सु रा धि चा चा रु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.