दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः । क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥

मल्लिनाथः दधतीति ॥ किं चेति चार्थः । अमुष्याद्रेरेताः शिखराणि शृङ्गाण्येव शिखाः केशपाश्यः । `शिखा चूडा केशपाशी` इत्यमरः । विकसद्भिर्विचित्रै र्नानावर्णैः कल्पद्रुमकुसुमैरभिगुम्फितान् ग्रथितानिव स्थितानित्युत्प्रेक्षा । अलघूनि विलम्बीनि, लम्बमानानि च पिच्छान्येव दामानि स्रजो येषु तान् शिखिनः केकिन एव शेखरानापीडान् क्षणं दधतीव । `शिखावलः शिखी केकी` इति, `शिखास्नापीडशेखराः` इति चामरः । अत्र कुसुमगुम्फेनोत्प्रेक्षालिङ्गेन पिच्छादीनां दामादिरूपकसिद्धिस्तदुत्थापिता चोत्प्रेक्षेति संकरः । पुष्पिताग्रा वृत्तमुक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.