मधुकरविटपानमिता-
स्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलता-
रजसा रोधश्चकास्ति कपिशं गलता ॥

मल्लिनाथः मधुकरेति ॥ मधुकरा एव विटास्तेषां पानं चुम्बनमिताः प्राप्ताः । इणः कर्तरि क्तः । विटपैः शाखाविस्तारैरानमिताः विटपानमिताः । विस्तारो विटपोsस्त्रियाम्` इत्यमरः । तरुपङ्क्तीर्बिभ्रतोऽस्याद्रेः रोधो नितम्बो गलता पतता परिपाकेण पिशङ्गीनां लतानां रजः पुष्परेणुः तेन परिपाकपिशङ्गलतारजसा कपिशं पिशङ्गं चकास्ति । मात्रावृत्तिष्वियमार्यागीतिरष्टगणा । `अर्धे वसुगण आर्यागीतिः` इति पिङ्गलनागः (३१)
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
धु वि पा मि ता
स्त रु ङ्क्ती र्बि भ्र तः ऽस्य वि पा मि ताः
रि पा पि ङ्ग ता
सा रो श्च का स्ति पि शं ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.