सहस्रसंख्यैर्गगनं पादै-
र्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मि-
निशाकरं साधु हिरण्यगर्भम् ॥

मल्लिनाथः सहस्रेति ॥ सहस्रमिति संख्या येषां तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षैश्च गगनं तथा तत्संख्यैः पादैः प्रत्यन्तपर्वतैश्चरणैश्च भुवं च व्याप्य वितिष्ठमानमवतिष्ठमानम् । `समवप्रविभ्यः स्थः` (१॥३।२२) इत्यात्मनेपदम् । विलोचनयोर्यत्स्थानं योग्यदेशस्तद्गतावुष्णरश्मिनिशाकरौ यस्य तम् । अन्यत्र नेत्रीकृतार्केन्दुमित्यर्थः । अतः साधु सत्यं हिरण्यगर्भं ब्रह्माणमिवेत्युत्प्रेक्षा । `सहस्रशीर्षा` इत्यादिश्रुतेरिति भावः । हिरण्यगर्भो निधिगर्भश्च
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
स्र सं ख्यै र्ग नं पा दै
र्भु वं व्या प्य वि ति ष्ठ मा नम्
वि लो स्था तो ष्ण श्मि
नि शा रं सा धु हि ण्य र्भम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.