Loading data... On slow networks this could take a few minutes.
100%

विहगाः कदम्बसुरभाविह गाः
कलयन्तनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं
पवनश्च धूतनवनीपवनः ॥

मल्लिनाथः विहगा इति ॥ कदम्बैः सुरभिः सुगन्धिस्तस्मिन् कदम्बसुरभाविहाद्रौ विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणं अनेके बहुविधा लया विच्छेदा यस्मिन्कर्मणि तद्यथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारयन्ति । `अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता` इति विश्वः । किंच धूतानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन स धूतनवनीपवनः । `नीपप्रियककदम्बास्तु हलिप्रियः` इत्यमरः । अयं पवनो मुहुरभ्रं मेघं भ्रमयमुपैति । प्रमिताक्षरावृत्तम् । `प्रमिताक्षरा सजससैरुदिता` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि गाः म्ब सु भा वि गाः
न्त नु क्ष ने यम्
भ्र न्नु पै ति मु हु भ्र यं
श्च धू नी नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.